दशरथकृता कामाक्षीस्तुतिः

अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका।

एताः पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः।।

अस्याः सान्निध्यमात्रेण महात्रिपुरसुन्दरीम्।

अर्चयित्वा तु अयोध्यायाम् अमुष्याधिदेवताम्।।

नैतस्याः सदृशी काचित् देवता विद्यते परा।

एनामेवार्चयन्त्यन्याः सर्वाः स्त्रीदेवता नृप।।

ब्रह्मविष्णुमहेशाद्याः सश्रीकाः सर्वदां सदा।

नारीकेलफलालीभिः पनसैः कदलीफलैः।।

मध्वाज्यशर्कराप्राज्यैः तथा पायसराशिभिः।

सिद्धद्रव्यविशेषैश्च पूजयेत् त्रिपुराम्बिकाम्।।

अभीष्टमचिरेणैव सम्प्रदास्यति सैव ते।

इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः।।

स्वेष्टसम्प्राप्तये भूयः विससर्ज विशाम्पतिः।

ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम्।।

अर्चयामास राजेन्द्रः भक्त्या परमया युतः।

एवं प्रतिदिनं पूजां विधाय प्रीतमानसः।।

अयोध्यादेवताधाम्नि शिश्ये तत्रैव सङ्गतः।

अर्धरात्रे व्यतीते तु निभृतोल्लासदीपके।।

किञ्चिन्निद्रालसस्यास्य पुरतस्त्रिपुराम्बिका।

पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा।।

सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता।

स्थित्वा वाक्यमुवाचेदं मन्दमिन्दुमतीसुतम्।।

अस्ति पङ्क्तिरथ श्रीमन् पुत्रभाग्यं तवानघ।

प्रविघातककर्माणि सन्ति पूर्वकृतानि ते।।

तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरम्।

स्नात्वा कम्पासरस्याञ्च तत्र मां पश्य पावनीम्।।

मध्ये काञ्चीपुरी मत्कं दहराकाशमध्यगम्।

कामकोष्ठं विपाप्मापि सप्तद्वारबलान्वितम्।।

साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदम्।

प्राङ्मुखी तत्र वर्तेहं महासिंहासनेश्वरी।।

महालक्ष्मीस्वरूपेण द्विभजा पद्मधारिणी।

चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम्।।

ममाक्षजा महागौरी वर्तते मम दक्षिणे।

सौन्दर्यसारसी या सा सर्वाभरणभूषिता।।

मया तु कल्पितवासा द्विभुजासपद्मधारिणी।

महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता।।

आपीठान्मौलिपर्यन्तं पश्यतस्तां ममांशजाम्।

पातकान्याशु नश्यन्ति किम्पुनस्तूपपातकम्।।

कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः।

कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत्।।

कुरुष्व मे महापूजां सितामध्वाज्यपायसैः।

विविधैः भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः।।

तत्रैव सुप्रसन्नाहं पूरयिष्यामि ते वरम्।

उपदिश्य च सम्राज्ञी दिव्यमूर्तिस्तिरोदधे।।

राजापि सहसोत्थाय किमेतदिति विस्मितः।

देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम्।।

तस्यैतद्रात्रिवृत्तान्तं कथयामास सादरः।

तत्समाकर्ण्य सा देवी सन्तोषमभजत्तदा।।

प्राप्तहर्षो नृपः प्रातः तया दयितया सह।

आत्मनः सचिवोपेतः काञ्चीपुरमुपागमत्।।

स्नात्वा कम्पातरङ्गिण्यां दृष्ट्वा देवीञ्च पावनीम्।।

पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः।

गोभूवस्त्रहिरण्याद्यैः तत्तीर्थक्षेत्रवासिनः।।

प्रीणयित्वा सपत्नीकः तान्नत्वा शक्तिपूजकान्।

अथालयं समाविश्य महाभक्त्या नृपोत्तमः।।

प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः।

ततः सन्निधिमागत्य देव्या कौसल्यया सह।।

श्रीकामकोष्ठनिलयां महात्रिपुरसुन्दरीम्।।

त्रिमूर्तिजननीमम्बां दृष्ट्वा श्रीचक्ररूपिणीम्।

प्रणिपत्य च साष्टाङ्गं भार्यया सह भक्तिमान्।

स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वाकुप्रवर्तिते।।

दुर्वाससा सशिष्येन पूजार्थं पूर्वकल्पिते।

दासीदासध्वजारोहमहोत्सवसमन्विते।।

तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्थपूजनम्।

रात्रौ स्वप्ने तु यद्रूपं दृष्टवांस्त्रैपुरं महः।।

तदेवात्रापि सन्दध्यौ सन्निधौ राजसत्तमः।

चिरं ध्यात्वा महाराजः सुवासांसि बहूनि च।।

दिव्यान्यायतनान्यस्यै दत्वा स्तोत्रं चकार ह।

पादाग्रलम्बपरमाभरणाभिरामे

मञ्जीररत्नरुचिमञ्जुलपादपद्मे।

पीताम्बरस्फुरितपेशलहेमकाञ्ची

-कोयूरकङ्कमपरिष्कृतबाहुवल्लि।।

पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे

रत्नोर्मिकासुमशरान्धृतदक्षहस्ते।

वक्षोजमण्डलविलासिवलक्षहारे

पाशाङ्कुशाङ्गदलस्भुजशोभिताङ्गि।।

वक्रश्रिया विजितशारदचन्द्रबिम्बे

ताटङ्करत्नकरमण्डितगण्डभागे।

वामे करेपि च कमण्डलुमादधाने

वक्षोजमण्डलविलासिवलक्षहारे।।

माणिक्यसूत्रमणिभासुरकम्बुकण्ठि

ताटङ्करत्नकरमण्डितगण्डभागे।

मन्दस्मितस्फुरणशालिनि मञ्जुनासे

नेत्रश्रिया विजितनीलसरोजपत्रे।।

सुभ्रूलते सुवदने सुललाटचित्रे

योगीन्द्रमानससरोजनिवासहंसि।

रत्नानुविद्धतपनीयमहाकिरीटे

सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये।।

काङ्क्षानुरूपवरदे करुणार्द्रचित्ते

साम्राज्यसम्पदभिमानिनि चक्रनाथे।

इन्द्रादिदेवपरिसेवितपादपद्मे

सिंहासनेश्वरि परे मयि सन्निधेयाः।।

इति स्तुत्वा स भूपालः बहिर्निर्गत्य भक्तितः।

तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह।।

प्रण्य दण्डवद्भूमौ कृत्वा चैनां स्तुतिंपुनः।

दत्वा चास्यै महार्हाणि वासांसि विविधानि च।।

अमूल्यानि परार्थ्यानि भूषणानि महान्ति च।

ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया।।

स्वगुरूक्तविधानेन महापूजां विधाय च।

तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः।।

अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन्।

अभीष्टं देहि देवीति प्रार्थयामास चेतसा।।

सुप्रसन्ना च कामाक्षी सान्तरिक्षगिरावदत्।

भविष्यन्ति मदंशात्ते चत्वारस्तनया नृप।।

इत्युदीरितमाकर्ण्य प्रमोदविकसन्मुखः।

श्रियं प्रणम्य साष्टाङ्गमनन्यशरणः पराम्।।

ललितोपाख्याने षट्त्रिंशोध्यायः श्लोकाः 99-145

Leave a Reply

Your email address will not be published. Required fields are marked *